• भगवतः प्रियः
    Nov 26 2024

    कश्चन परोपकारी सज्जनः केवलं दरिद्राणां दीनानां च सेवायामेव मग्नः भवति स्म । एकदा स्वप्ने देवदूतः तमवदत्- “ये जनाः भक्त्या भगवन्तं प्रार्थयन्ते तेषाम् आवल्यां तव नाम नास्तीति ।" सज्जनः प्रत्यवदत्, "मम भक्तिः सेवारूपेण अस्ति, न तु प्रार्थनारूपेण । अनन्तरं पुनः देवदूतः स्वप्ने समागत्य अवदत् – ये निस्वार्थररूपेण कार्यं कुर्वन्ति तेषामुपरि भगवतः महती प्रीतिः भवतीति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A philanthropic gentleman uses to be busy in the service of the poor and needy. Once in a dream an angel told him, “Your name is not on the list of those who pray to the Lord with devotion.” The gentleman replied, “My devotion is in the form of service, not in the form of prayer. Later, the angel appeared again in a dream and said that the Lord is very pleased with those who act selflessly.

    Show More Show Less
    4 mins
  • शत्रुणापि प्रशंसितः लाचितः
    Nov 25 2024

    असमे चक्रधरसिंहस्य शासने लाचितवराफुकनः सेनापतिः आसीत् । दिल्लीनगरस्थः औरङ्गजेबः असमस्य वशीकरणं लक्ष्यीकृतवान् । लाचितः गुवाहाटीसमीपे दुर्गस्य निर्माणस्य आदेशं दत्तवान् । सः सर्वदा सैनिकान् प्रेरयति स्म । ज्वरपीडितः अपि लाचितः औरङ्गजेबस्य सेनापतिं रामसिंहं पराजितवान् इत्यतः तस्य शौर्यं सर्वे सादरं स्मरन्ति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Lachit Varaphukan was army commander of Chakradhar Singh. Delhi ruler Aurangzeb aimed to subjugate Assam. Lachit ordered the construction of a fort near Guwahati for defense. He always uses to inspire the soldiers. Despite suffering from fever, Lachit, defeated Ram Singh, a commander of Aurangzeb. Lachit Varaphukan became a symbol of bravery in Indian history,

    Show More Show Less
    6 mins
  • आशीर्वादः
    Nov 24 2024

    रामकृष्णपरमहंसस्य पत्नी शारदादेवी सर्वजनवत्सला आसीत् । एकदा एका महिला तां द्रष्टुं आगता । सा शारदादेवीं अवदत्, "मम पतिः कश्चित् वैद्यः, सः धनं सम्पादयतु इति आशीर्वादं कुरुतु ।" शारदादेवी विचार्य अवदत्, "अहम् आशीर्वादं कर्तुं न समर्था ।" कारणे पृष्टे शारदादेवी उक्तवती, "धनं प्राप्यते चेत् सुखं न लभ्यते । अनेके जनाः धनवन्तः अपि दुःखिताः सन्ति ।" अन्यच्च "यदि तव पतिः धनं सम्पादयेत्, तर्हि रोगिणां सङ्ख्या वर्धिष्यते । अहं सदा प्रार्थये 'सर्वे सन्तु निरामयाः' इति । एतम् आशयं तस्मिन् आशीर्वादे प्रकटयितुं न शक्नोमि । किन्तु अहं तव सुखं, निरामयतां च प्रार्थये, तदर्थम् आशीर्वादं करोमि ।" अतः शारदादेव्याः आशीर्वादं प्राप्य सा महिला ततः निर्गता ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    shardadevi was the wife of Ramakrishna Paramahamsa. One day a woman came to see Sharadadevi and said "My husband is a doctor; please bless him so that he can earn money. Sharadadevi thought and said, "I am not able to bless. The woman asked, "Why?" Sharda Devi said, "There is no happiness without money." Many people are rich and still not happy. "The second reason Sharadadevi said," If your husband earns money, the number of patients will increase. I always pray for everyone to be happy. I cannot express this hope in that blessing. But I will pray for your happiness and well-being, and I will bless you. "So, after getting the blessings of Sharadadevi, the woman left.

    Show More Show Less
    4 mins
  • वनस्पतयः शान्तिः
    Nov 23 2024

    चित्रकूटप्रदेशे दीर्घजीवी नाम ऋषिः आश्रमे निवसति । तत्र जनाः वृक्षच्छेदनं कृत्वा गृहाणि निर्मितवन्तः, अङ्गारनिर्माणं च कृतवन्तः, येन वनं वृक्षशून्यं जातम् । कालेन अनावृष्ट्या जलाशयाः शुष्काः अभवन्, जनाः, पशवः च मरणासन्नाः सन्तः महतीं पीडां अनुभवन्ति स्म । तत्प्रदेशे निवसन् कश्चन काष्ठोपजीवी पिपासया क्लान्तः आश्रमे दीर्घजीविनं दृष्ट्वा जलं भोजनं च प्राप्तवान् । तेन देशस्य दुःस्थितेः कारणे पृष्टे दीर्घजीवी अवदत् यत् वृक्षच्छेदनं, अग्निसंयोगः च एतस्य संकटस्य कारणम् इति । सः काष्ठोपजीविनं वृक्षारोपणाय प्रेरयन् देशस्य रक्षणे प्रवृत्तिं कर्तुम् उक्तवान् । सः काष्ठोपजीवी दीर्घजीविनः उपदेशं स्वीकृत्य वृक्षारोपणाय कृतनिश्चयः स्वग्रामं प्रत्यागतः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the Chitrakoot region, the long-lived name Rishi resides in the ashram. People there cut down trees, built houses, and built coal mines, which cleared the forest of trees. Over time, the droughts dried up the ponds, and the people and animals suffered greatly from the death toll. A woodpecker that lived in that country, of thirst, saw a long life in a shelter and got water and food. When asked about the plight of the country, Dirghajeevi Rishi said that the crisis was caused by tree felling and arson. He called for a drive to save the country by motivating woodworkers to plant trees. He returned to his village, determined to plant trees, took the advice and planted the trees.

    Show More Show Less
    5 mins
  • जनादरपात्रता कथम्?
    Nov 22 2024

    कश्चन राजा महाकोपशीलः आसीत् । तस्य मन्त्री सुबुद्धिः तु शासनदक्षः । एकदा राज्ञः मूर्तिप्रतिष्ठायाः विचारो अभवत् किन्तु सुबुद्धिः तं विचारं न अन्वमन्यत । प्रजोपकारकं कार्यं करणीयमिति तस्य मतमासीत् । राजा कुपितः तं मन्त्रिस्थानात् निष्कास्य क्षामग्रस्तं प्रदेशं प्रति प्रेषितवान् । सुबुद्धिना तत्र जनहिताय कासारनिर्माणादिकं कृतम्, येन जनसमृद्धिः जाता। अन्ते राजा जनप्रियस्य सुबुद्धेः कार्यदक्षतायाः प्रशंसा कृत्वा तं पुनः मन्त्रिस्थाने प्रतिष्ठापितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    One of the kings was Mahakopshila. His ministry is a Subudhhi. Once upon a time, a king had an idea of idolatry, and subudhhi did not accept the idea. He believed that we should do good work. The king was angry and removed him from his post and sent him to a famine-stricken region. subuddhi ordered the construction of a fort there for the public, which led to an increase in population. Finally, the king praised the performance of the popular sage and reinstated him in the ministry.

    Show More Show Less
    6 mins
  • किं व्यर्थव्ययेन आडम्बरेण वा?
    Nov 21 2024

    कश्चन राजा उत्तमं शासनं कुर्वन् चिन्तितवान् यत् मरणानन्तरम् अपि जनैः स्मरणीयः स्याम् इति । अतः सः रमणीये उद्याने एकं सुन्दरं मण्डपं स्मारकसहितं स्थापयितुम् इच्छुः मन्त्रिणः पुरतः प्रस्तावम् अकरोत्, सभासदाः सहर्षं स्वीकृतवन्तः । तदा प्रधानमन्त्री शिलाखण्डं दर्शयित्वा अपृच्छत् यथा शिलायाः उत्पत्तिः, अवस्थां भविष्यत् वा ज्ञातुं न शक्यते । सर्वमपि अस्थिरम्। अस्माकं जीवनं तु उत्तमकार्यार्थं स्यात् न तु स्मारकादिकेन्द्रितम् इति।तस्य वक्तव्यं श्रुत्वा राजा सहमतिं दर्शयन् आडम्बरादिचिन्तनं व्यर्थम् इति अमन्यत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king who ruled well thought that would be remembered by the people even after his death. So he proposed to the minister that a beautiful pavilion be erected in the beautiful garden with a monument, and the members readily agreed. The Prime Minister then showed the boulder and asked if the origin, condition or future of the stone could not be known. Everything is unstable. Our lives should be about doing well, not about memorializing. Hearing his statement, the king agreed and considered the idea of ostentation futile.

    Show More Show Less
    4 mins
  • तदर्थमेव तव सृष्टिः
    Nov 20 2024

    कश्चन धनिकः दानार्थं प्रसिद्धः आसीत् । सः एकदा एकस्याः दुःखितायाः बालिकायाः सन्दर्शनं कृत्वा तस्याः कल्याणं प्रार्थितवान् । तस्याः गृहं गत्वा सः तस्याः अत्यन्तं दारिद्र्यं ज्ञात्वा तां चिकित्सायै चिकित्सालयं नीतवान् । एतेन अनुभवेन सः अल्पभाग्यानां साहाय्यार्थम् अधिकं समयं, साधनानि च समर्पयितुम् उद्यतः अभवत् । तेषां दुःखनिवारणाय तेषां जीवने सार्थकं परिवर्तनं कर्तुं च सः प्रतिबद्धः जातः।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A rich man was known for his charity. He once visited a grieving girl and asked for her welfare. After visiting her home, he discovered her extreme poverty and took her to a hospital for treatment. This experience led him to devote more time and resources to helping the less fortunate. He became committed to alleviating their suffering and making meaningful changes in their lives.

    Show More Show Less
    4 mins
  • श्रेष्ठः कः?
    Nov 19 2024

    कश्चन गर्वितः विद्वान् स्नानार्थं गच्छन् स्वीयां पादरक्षापट्टिकां समीकर्तुम् चर्मकारम् आज्ञापितवान् । चर्मकारेण पादरक्षां समीकृत्य दत्तायां विद्वान् चर्मकारदिशि नाणकं क्षिप्तवान् । तत् तिरस्कुर्वन् चर्मकारः पूगफलं दत्वा गङ्गामात्रे दातुं सूचितवान् । गङ्गामाता तु चर्मकाराय दीयताम् इत्युक्त्वा एकं सुवर्णकङ्कणं दत्तवती । परन्तु सः विद्वान् तस्य पत्न्यै अददात् । अन्ते तत् कङ्कणं राज्ञा प्राप्तम् । राजा तादृशमेव अपरं कङ्कणम् इष्टवान् । सः अनन्यगत्या पुनः साहाय्यं याचमानः चर्मकारस्य समीपं आगतवान् । अन्ते चर्मकारः पण्डितम् अवदत् उत्तमव्यवहारेण जनाः आदरं प्राप्नुवन्ति न तु पाण्डित्येन ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A proud scholar lived on the bank of the Ganga. One day, his sandal strap broke while going for a bath, and he ordered a nearby cobbler to fix it. The cobbler repaired it respectfully but refused the payment the scholar offered, suggesting he donate betel nuts to the Ganga instead. Later, the scholar sold a bracelet to the king but failed to produce another when requested. Seeking help, he followed the cobbler's advice and offered a betel nut to the Ganga, who then granted him another bracelet. He presented it to the king and escaped punishment. In the end, the cobbler taught the scholar that respect is earned through good conduct, not just knowledge or birth.

    Show More Show Less
    5 mins